Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१४

ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
 देवेभिर्याहि यक्षि च ॥१॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
 देवेभिरग्न आ गहि ॥२॥
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
 आदित्यान्मारुतं गणम् ॥३॥
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
 द्रप्सा मध्वश्चमूषदः ॥४॥
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
 हविष्मन्तो अरंकृतः ॥५॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
 आ देवान्सोमपीतये ॥६॥
तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
 मध्वः सुजिह्व पायय ॥७॥
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
 मधोरग्ने वषट्कृति ॥८॥
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।
 विप्रो होतेह वक्षति ॥९॥
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
 पिबा मित्रस्य धामभिः ॥१०॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
 सेमं नो अध्वरं यज ॥११॥
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
 ताभिर्देवाँ इहा वह ॥१२॥

No comments:

Post a Comment