Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
 जुहूमसि द्यविद्यवि ॥१॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
 गोदा इद्रेवतो मदः ॥२॥
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
 मा नो अति ख्य आ गहि ॥३॥
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
 यस्ते सखिभ्य आ वरम् ॥४॥
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
 दधाना इन्द्र इद्दुवः ॥५॥
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः ।
 स्यामेदिन्द्रस्य शर्मणि ॥६॥
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
 पतयन्मन्दयत्सखम् ॥७॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
 प्रावो वाजेषु वाजिनम् ॥८॥
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
 धनानामिन्द्र सातये ॥९॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
 तस्मा इन्द्राय गायत ॥१०॥

No comments:

Post a Comment