Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४४

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
 आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥१॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
 सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥२॥
अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।
 धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥३॥
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
 देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥४॥
स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
 अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥५॥
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
 प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥६॥
होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
 स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥७॥
सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।
 कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥८॥
पतिर्ह्यध्वराणामग्ने दूतो विशामसि ।
 उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥९॥
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
 असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥१०॥
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
 मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥११॥
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
 सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥१२॥
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
 आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥१३॥
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
 पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥१४॥

No comments:

Post a Comment