Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.३७

क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
 कण्वा अभि प्र गायत ॥१॥
ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
 अजायन्त स्वभानवः ॥२॥
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
 नि यामञ्चित्रमृञ्जते ॥३॥
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
 देवत्तं ब्रह्म गायत ॥४॥
प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
 जम्भे रसस्य वावृधे ॥५॥
को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
 यत्सीमन्तं न धूनुथ ॥६॥
नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
 जिहीत पर्वतो गिरिः ॥७॥
येषामज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः ।
 भिया यामेषु रेजते ॥८॥
स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
 यत्सीमनु द्विता शवः ॥९॥
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
 वाश्रा अभिज्ञु यातवे ॥१०॥
त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
 प्र च्यावयन्ति यामभिः ॥११॥
मरुतो यद्ध वो बलं जनाँ अचुच्यवीतन ।
 गिरीँरचुच्यवीतन ॥१२॥
यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
 शृणोति कश्चिदेषाम् ॥१३॥
प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
 तत्रो षु मादयाध्वै ॥१४॥
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
 विश्वं चिदायुर्जीवसे ॥१५॥

No comments:

Post a Comment