Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२८

यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥१॥
यत्र द्वाविव जघनाधिषवण्या कृता ।
 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥२॥
यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥३॥
यत्र मन्थां विबध्नते रश्मीन्यमितवा इव ।
 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥४॥
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
 इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥५॥
उत स्म ते वनस्पते वातो वि वात्यग्रमित् ।
 अथो इन्द्राय पातवे सुनु सोममुलूखल ॥६॥
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः ।
 हरी इवान्धांसि बप्सता ॥७॥
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
 इन्द्राय मधुमत्सुतम् ॥८॥
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज ।
 नि धेहि गोरधि त्वचि ॥९॥

No comments:

Post a Comment