Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.११

इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
 रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥१॥
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
 त्वामभि प्र णोनुमो जेतारमपराजितम् ॥२॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
 यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥३॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
 इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥४॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
 त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥५॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
 उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥६॥
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
 विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥७॥
इन्द्रमीशानमोजसाभि स्तोमा अनूषत ।
 सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥८॥

No comments:

Post a Comment