Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.३०

आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
 मंहिष्ठं सिञ्च इन्दुभिः ॥१॥
शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
 एदु निम्नं न रीयते ॥२॥
सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
 समुद्रो न व्यचो दधे ॥३॥
अयमु ते समतसि कपोत इव गर्भधिम् ।
 वचस्तच्चिन्न ओहसे ॥४॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
 विभूतिरस्तु सूनृता ॥५॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
 समन्येषु ब्रवावहै ॥६॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
 सखाय इन्द्रमूतये ॥७॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
 वाजेभिरुप नो हवम् ॥८॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
 यं ते पूर्वं पिता हुवे ॥९॥
तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
 सखे वसो जरितृभ्यः ॥१०॥
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
 सखे वज्रिन्सखीनाम् ॥११॥
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
 यथा त उश्मसीष्टये ॥१२॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
 क्षुमन्तो याभिर्मदेम ॥१३॥
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
 ऋणोरक्षं न चक्र्योः ॥१४॥
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
 ऋणोरक्षं न शचीभिः ॥१५॥
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
 स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥१६॥
आश्विनावश्वावत्येषा यातं शवीरया ।
 गोमद्दस्रा हिरण्यवत् ॥१७॥
समानयोजनो हि वां रथो दस्रावमर्त्यः ।
 समुद्रे अश्विनेयते ॥१८॥
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
 परि द्यामन्यदीयते ॥१९॥
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
 कं नक्षसे विभावरि ॥२०॥
वयं हि ते अमन्मह्यान्तादा पराकात् ।
 अश्वे न चित्रे अरुषि ॥२१॥
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
 अस्मे रयिं नि धारय ॥२२॥

No comments:

Post a Comment