Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.३८

कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
 दधिध्वे वृक्तबर्हिषः ॥१॥
क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः ।
 क्व वो गावो न रण्यन्ति ॥२॥
क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
 क्वो विश्वानि सौभगा ॥३॥
यद्यूयं पृश्निमातरो मर्तासः स्यातन ।
 स्तोता वो अमृतः स्यात् ॥४॥
मा वो मृगो न यवसे जरिता भूदजोष्यः ।
 पथा यमस्य गादुप ॥५॥
मो षु णः परापरा निरृतिर्दुर्हणा वधीत् ।
 पदीष्ट तृष्णया सह ॥६॥
सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
 मिहं कृण्वन्त्यवाताम् ॥७॥
वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति ।
 यदेषां वृष्टिरसर्जि ॥८॥
दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
 यत्पृथिवीं व्युन्दन्ति ॥९॥
अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् ।
 अरेजन्त प्र मानुषाः ॥१०॥
मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु ।
 यातेमखिद्रयामभिः ॥११॥
स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
 सुसंस्कृता अभीशवः ॥१२॥
अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् ।
 अग्निं मित्रं न दर्शतम् ॥१३॥
मिमीहि श्लोकमास्ये पर्जन्य इव ततनः ।
 गाय गायत्रमुक्थ्यम् ॥१४॥
वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् ।
 अस्मे वृद्धा असन्निह ॥१५॥

No comments:

Post a Comment