Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२२

प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
 अस्य सोमस्य पीतये ॥१॥
या सुरथा रथीतमोभा देवा दिविस्पृशा ।
 अश्विना ता हवामहे ॥२॥
या वां कशा मधुमत्यश्विना सूनृतावती ।
 तया यज्ञं मिमिक्षतम् ॥३॥
नहि वामस्ति दूरके यत्रा रथेन गच्छथः ।
 अश्विना सोमिनो गृहम् ॥४॥
हिरण्यपाणिमूतये सवितारमुप ह्वये ।
 स चेत्ता देवता पदम् ॥५॥
अपां नपातमवसे सवितारमुप स्तुहि ।
 तस्य व्रतान्युश्मसि ॥६॥
विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
 सवितारं नृचक्षसम् ॥७॥
सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
 दाता राधांसि शुम्भति ॥८॥
अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
 त्वष्टारं सोमपीतये ॥९॥
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
 वरूत्रीं धिषणां वह ॥१०॥
अभि नो देवीरवसा महः शर्मणा नृपत्नीः ।
 अच्छिन्नपत्राः सचन्ताम् ॥११॥
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
 अग्नायीं सोमपीतये ॥१२॥
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
 पिपृतां नो भरीमभिः ॥१३॥
तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
 गन्धर्वस्य ध्रुवे पदे ॥१४॥
स्योना पृथिवि भवानृक्षरा निवेशनी ।
 यच्छा नः शर्म सप्रथः ॥१५॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
 पृथिव्याः सप्त धामभिः ॥१६॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
 समूळ्हमस्य पांसुरे ॥१७॥
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
 अतो धर्माणि धारयन् ॥१८॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
 इन्द्रस्य युज्यः सखा ॥१९॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
 दिवीव चक्षुराततम् ॥२०॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
 विष्णोर्यत्परमं पदम् ॥२१॥

No comments:

Post a Comment