Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.७

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
 इन्द्रं वाणीरनूषत ॥१॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
 इन्द्रो वज्री हिरण्ययः ॥२॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
 वि गोभिरद्रिमैरयत् ॥३॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
 उग्र उग्राभिरूतिभिः ॥४॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
 युजं वृत्रेषु वज्रिणम् ॥५॥
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
 अस्मभ्यमप्रतिष्कुतः ॥६॥
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
 न विन्धे अस्य सुष्टुतिम् ॥७॥
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
 ईशानो अप्रतिष्कुतः ॥८॥
य एकश्चर्षणीनां वसूनामिरज्यति ।
 इन्द्रः पञ्च क्षितीनाम् ॥९॥
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
 अस्माकमस्तु केवलः ॥१०॥

No comments:

Post a Comment