Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१६

आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
 इन्द्र त्वा सूरचक्षसः ॥१॥
इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
 इन्द्रं सुखतमे रथे ॥२॥
इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
 इन्द्रं सोमस्य पीतये ॥३॥
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
 सुते हि त्वा हवामहे ॥४॥
सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
 गौरो न तृषितः पिब ॥५॥
इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
 ताँ इन्द्र सहसे पिब ॥६॥
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः ।
 अथा सोमं सुतं पिब ॥७॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
 वृत्रहा सोमपीतये ॥८॥
सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
 स्तवाम त्वा स्वाध्यः ॥९॥

No comments:

Post a Comment