Friday, December 26, 2014

ऋग्वेद: सूक्तं १.७१-८०

ऋग्वेद: सूक्तं .७१

उप प्र जिन्वन्नुशतीरुशन्तं पतिं नित्यं जनयः सनीळाः
 स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं गावः ॥१॥
वीळु चिद्दृळ्हा पितरो उक्थैरद्रिं रुजन्नङ्गिरसो रवेण
 चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥२॥
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः
 अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥३॥
मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत्
 आदीं राज्ञे सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥४॥
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान्
 सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥५॥
स्व यस्तुभ्यं दम विभाति नमो वा दाशादुशतो अनु द्यून्
 वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥६॥
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं स्रवतः सप्त यह्वीः
  जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥७॥
यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके
 अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥८॥
मनो योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे
 राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥९॥
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन्
 नभो रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥१०॥

ऋग्वेद: सूक्तं .७२

नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि
 अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥१॥
अस्मे वत्सं परि षन्तं विन्दन्निच्छन्तो विश्वे अमृता अमूराः
 श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः ॥२॥
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान्
 नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥३॥
रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः
 विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥४॥
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन्
 रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥५॥
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः
 तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं पाहि ॥६॥
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः
 अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥७॥
स्वाध्यो दिव सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन्
 विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥८॥
ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम्
 मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥९॥
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन्
 अध क्षरन्ति सिन्धवो सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥१०॥

ऋग्वेद: सूक्तं .७३

रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो शासुः
 स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥१॥
देवो यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा
 पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥२॥
देवो यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो राजा
 पुरःसदः शर्मसदो वीरा अनवद्या पतिजुष्टेव नारी ॥३॥
तं त्वा नरो दम नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु
 अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥४॥
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः
 सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥५॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः
 परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥६॥
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः
 नक्ता चक्रुरुषसा विरूपे कृष्णं वर्णमरुणं सं धुः ॥७॥
यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं
 छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥८॥
अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः
 ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥९॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे
 शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥१०॥

ऋग्वेद: सूक्तं .७४

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये आरे अस्मे शृण्वते ॥१॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु अरक्षद्दाशुषे गयम् ॥२॥
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि धनंजयो रणेरणे ॥३॥
यस्य दूतो असि क्षये वेषि हव्यानि वीतये दस्मत्कृणोष्यध्वरम् ॥४॥
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो जना आहुः सुबर्हिषम् ॥५॥
वहासि ताँ इह देवाँ उप प्रशस्तये हव्या सुश्चन्द्र वीतये ॥६॥
योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन यदग्ने यासि दूत्यम् ॥७॥
त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः प्र दाश्वाँ अग्ने अस्थात् ॥८॥
उत द्युमत्सुवीर्यं बृहदग्ने विवाससि देवेभ्यो देव दाशुषे ॥९॥

ऋग्वेद: सूक्तं .७५

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् हव्या जुह्वान आसनि ॥१॥
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् वोचेम ब्रह्म सानसि ॥२॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः को कस्मिन्नसि श्रितः ॥३॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः सखा सखिभ्य ईड्यः ॥४॥
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् अग्ने यक्षि स्वं दमम् ॥५॥

ऋग्वेद: सूक्तं .७६

का उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा
 को वा यज्ञैः परि दक्षं आप केन वा ते मनसा दाशेम ॥१॥
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः
 अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा
 अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥३॥
प्रजावता वचसा वह्निरासा हुवे नि सत्सीह देवैः
 वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥४॥
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन्
 एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥

ऋग्वेद: सूक्तं .७७

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः
 यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम्
 अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥२॥
हि क्रतुः मर्यः साधुर्मित्रो भूदद्भुतस्य रथीः
 तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥३॥
नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम्
 तना ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥४॥
एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः
  एषु द्युम्नं पीपयत्स वाजं पुष्टिं याति जोषमा चिकित्वान् ॥५॥

ऋग्वेद: सूक्तं .७८

अभि त्वा गोतमा गिरा जातवेदो विचर्षणे द्युम्नैरभि प्र णोनुमः ॥१॥
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति द्युम्नैरभि प्र णोनुमः ॥२॥
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे द्युम्नैरभि प्र णोनुमः ॥३॥
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे द्युम्नैरभि प्र णोनुमः ॥४॥
अवोचाम रहूगणा अग्नये मधुमद्वचः द्युम्नैरभि प्र णोनुमः ॥५॥

ऋग्वेद: सूक्तं .७९

हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान्
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो सत्याः ॥१॥
ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम्
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥२॥
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः
अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥३॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो अस्मे धेहि जातवेदो महि श्रवः ॥४॥
इधानो वसुष्कविरग्निरीळेन्यो गिरा रेवदस्मभ्यं पुर्वणीक दीदिहि ॥५॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः तिग्मजम्भ रक्षसो दह प्रति ॥६॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि विश्वासु धीषु वन्द्य ॥७॥
नो अग्ने रयिं भर सत्रासाहं वरेण्यम् विश्वासु पृत्सु दुष्टरम् ॥८॥
नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् मार्डीकं धेहि जीवसे ॥९॥
प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये भरस्व सुम्नयुर्गिरः ॥१०॥
यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः अस्माकमिद्वृधे भव ॥११॥

सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति होता गृणीत उक्थ्यः ॥१२॥

ऋग्वेद: सूक्तं .८०

इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम्
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥१॥
त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः  
येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥२॥
प्रेह्यभीहि धृष्णुहि ते वज्रो नि यंसते  
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥३॥
निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः  
सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥४॥
इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः  
अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥५॥
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥६॥
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥७॥
वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥८॥
सहस्रं साकमर्चत परि ष्टोभत विंशतिः शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥९॥
इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु स्वराज्यम् ॥१०॥
इमे चित्तव मन्यवे वेपेते भियसा मही यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥११॥
वेपसा तन्यतेन्द्रं वृत्रो वि बीभयत् अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥१२॥
यद्वृत्रं तव चाशनिं वज्रेण समयोधयः अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥१३॥
अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते
त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥१४॥
नहि नु यादधीमसीन्द्रं को वीर्या परः तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥१५॥
यामथर्वा मनुष्पिता दध्यङ्धियमत्नत तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥१६॥

No comments:

Post a Comment