Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१०

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
 ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
 तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥२॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
 अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव ।
 ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
 शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥५॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
 स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।
 गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥७॥
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
 जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
 इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥९॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
 वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
 नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥११॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
 वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥

No comments:

Post a Comment