Friday, December 26, 2014

ऋग्वेद: सूक्तं १.१२१-१३०

ऋग्वेद: सूक्तं .१२१

कदित्था नॄनः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन्
 प्र यदानड्विश हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥१॥
स्तम्भीद्ध द्यां धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः
 अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥२॥
नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामङ्गिरसामनु द्यून्
 तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥३॥
अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम्
 यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥४॥
तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू
 शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥५॥
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो सूरः
 इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥६॥
स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः
 यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥७॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम्
 हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥८॥
त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा
 कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥९॥
पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य
 शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥१०॥
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन्
 त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥११॥
त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान्
 यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥१२॥
त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र
 प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥१३॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके
 प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥१४॥
मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त
  नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥

ऋग्वेद: सूक्तं .१२२

प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्
 दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥१॥
पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने
 स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥२॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान्
 शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥३॥
उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै
 प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥४॥
वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे
 प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः ॥५॥
श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम्
 श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥६॥
स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे
 श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥७॥
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः
 जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥८॥
जनो यो मित्रावरुणावभिध्रुगपो वां सुनोत्यक्ष्णयाध्रुक्
 स्वयं यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥९॥
व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः
 विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥१०॥
अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः
 नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥११॥
एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे
 द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥१२॥
मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना
 किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥१३॥
हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः
 अर्यो गिरः सद्य जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥१४॥
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः
 रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥१५॥

ऋग्वेद: सूक्तं .१२३

पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः
 कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥१॥
पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री
 उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥२॥
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते
 देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥
गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना
 सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व
 पश्चा दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः
 स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते
 परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम
 अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥८॥
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची
 ऋतस्य योषा मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥९॥
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम्
 संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥१०॥
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम्
 भद्रा त्वमुषो वितरं व्युच्छ तत्ते अन्या उषसो नशन्त ॥११॥
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य
 परा यन्ति पुनरा यन्ति भद्रा नाम वहमाना उषासः ॥१२॥
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि
 उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु स्युः ॥१३॥

ऋग्वेद: सूक्तं .१२४

उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत्
 देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥१॥
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि
 ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥२॥
एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात्
 ऋतस्य पन्थामन्वेति साधु प्रजानतीव दिशो मिनाति ॥३॥
उपो अदर्शि शुन्ध्युवो वक्षो नोधा इवाविरकृत प्रियाणि
 अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥४॥
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम्
 व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥५॥
एवेदेषा पुरुतमा दृशे कं नाजामिं परि वृणक्ति जामिम्
 अरेपसा तन्वा शाशदाना नार्भादीषते महो विभाती ॥६॥
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम्
 जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥७॥
स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव
 व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥८॥
आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात्
 ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥९॥
प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु
 रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥१०॥
अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम्
 वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥११॥
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ
 अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥१२॥
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः
 युष्माकं देवीरवसा सनेम सहस्रिणं शतिनं वाजम् ॥१३॥

ऋग्वेद: सूक्तं .१२५

प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते
 तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥१॥
सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति
 यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥२॥
आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन
 अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥३॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं यक्ष्यमाणं धेनवः
 पृणन्तं पपुरिं श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥४॥
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति देवेषु गच्छति
 तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥५॥
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः
 दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥६॥
मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः
 अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥७॥

ऋग्वेद: सूक्तं .१२६

अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य
 यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम्
 शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः
 षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति
 मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः
 सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
आगधिता परिगधिता या कशीकेव जङ्गहे
 ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः
 सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥७॥

ऋग्वेद: सूक्तं .१२७

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं जातवेदसम्
  ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा
 घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥१॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः
 परिज्मानमिव द्यां होतारं चर्षणीनाम्
 शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥२॥
हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः
 वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्
 निःषहमाणो यमते नायते धन्वासहा नायते ॥३॥
दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे
 प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा
 स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥४॥
तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात्
 आदस्यायुर्ग्रभणवद्वीळु शर्म सूनवे
 भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥५॥
हि शर्धो मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः
 आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा
 अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे पन्थाम् ॥६॥
द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः
 अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम्
 प्रियाँ अपिधीँर्वनिषीष्ट मेधिर वनिषीष्ट मेधिरः ॥७॥
विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे
 अतिथिं मानुषाणां पितुर्न यस्यासया
 अमी विश्वे अमृतास वयो हव्या देवेष्वा वयः ॥८॥
त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये
 शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः
 अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥९॥
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये
 प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे
 अग्रे रेभो जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥१०॥
नो नेदिष्ठं ददृशान भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना
 महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै
 महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो शवसा ॥११॥

ऋग्वेद: सूक्तं .१२८

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम्
 विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते
 अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥१॥
तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता
  ऊर्जामुपाभृत्यया कृपा जूर्यति
 यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत्
 शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः
 सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥
सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति
 क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे
 यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥
क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां भोज्येषिराय भोज्या
  हि ष्मा दानमिन्वति वसूनां मज्मना
  नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया शिश्रथत्
 विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे
 विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥
मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो विश्पतिः प्रियो यज्ञेषु विश्पतिः
  हव्या मानुषाणामिळा कृतानि पत्यते
  नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥७॥
अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे
 विश्वायुं विश्ववेदसं होतारं यजतं कविम्
 देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥

ऋग्वेद: सूक्तं .१२९

यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि
 सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम्
 सास्माकमनवद्य तूतुजान वेधसामिमां वाचं वेधसाम् ॥१॥
श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः
 यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता
 तमीशानास इरधन्त वाजिनं पृक्षमत्यं वाजिनम् ॥२॥
दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम्
 इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे
 मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥३॥
अस्माकं इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम्
 अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित्
 नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥४॥
नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः
 नेषि णो यथा पुरानेनाः शूर मन्यसे
 विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥५॥
प्र तद्वोचेयं भव्यायेन्दवे हव्यो इषवान्मन्म रेजति रक्षोहा मन्म रेजति
 स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम्
 अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥६॥
वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम्
 दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि
  सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥७॥
प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम्
 स्वयं सा रिषयध्यै या उपेषे अत्रैः
 हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥८॥
त्वं इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्यरक्षसा
 सचस्व नः पराक सचस्वास्तमीक
 पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥९॥
त्वं इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे
 ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य
 अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥१०॥
पाहि इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम्
 हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः
 अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥११॥

ऋग्वेद: सूक्तं .१३०

एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः
 हवामहे त्वा वयं प्रयस्वन्तः सुते सचा
 पुत्रासो पितरं वाजसातये मंहिष्ठं वाजसातये ॥१॥
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं वंसगस्तातृषाणो वंसगः
 मदाय हर्यताय ते तुविष्टमाय धायसे
  त्वा यच्छन्तु हरितो सूर्यमहा विश्वेव सूर्यम् ॥२॥
अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि
 व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः
 अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥३॥
दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत्
 संविव्यान ओजसा शवोभिरिन्द्र मज्मना
 तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥४॥
त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव
 इत ऊतीरयुञ्जत समानमर्थमक्षितम्
 धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥५॥
इमां ते वाचं वसूयन्त आयवो रथं धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः
 शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम्
 अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥६॥
भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो
 अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत्
 महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥७॥
इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु
 मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्
 दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥८॥
सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीऽशान मुषायति
 उशना यत्परावतोऽजगन्नूतये कवे
 सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥९॥
नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः

 दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥१०॥

No comments:

Post a Comment