Friday, December 26, 2014

ऋग्वेद: सूक्तं १.१३१-१४०

ऋग्वेद: सूक्तं .१३१

इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः
 इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः
 इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥१॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्
 तं त्वा नावं पर्षणिं शूषस्य धुरि धीमहि
 इन्द्रं यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥२॥
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः
 यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि
 आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥३॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः
 शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते
 महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥४॥
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ
 चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे
 ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥५॥
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः
 यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि
  मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥६॥
त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम्
 जहि यो नो अघायति शृणुष्व सुश्रवस्तमः
 रिष्टं यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥७॥

ऋग्वेद: सूक्तं .१३२

त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः
 नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते
 अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥१॥
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि
 अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः
 अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥२॥
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम्
 वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः
  घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥३॥
नू इत्था ते पूर्वथा प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम्
 ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि
 सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥४॥
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः
 तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा
 इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा धीतयः ॥५॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम्
 दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत्
 अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥६॥

ऋग्वेद: सूक्तं .१३३

उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः
 अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥१॥
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम्
 छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥२॥
अवासां मघवञ्जहि शर्धो यातुमतीनाम्
 वैलस्थानके अर्मके महावैलस्थे अर्मके ॥३॥
यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः
 तत्सु ते मनायति तकत्सु ते मनायति ॥४॥
पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण
 सर्वं रक्षो नि बर्हय ॥५॥
अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः
 शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे
 अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥६॥
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः
 सुन्वान इत्सिषासति सहस्रा वाज्यवृतः
 सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥७॥

ऋग्वेद: सूक्तं .१३४

त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये
 ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती
 नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः
 यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः
 सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे
 प्र बोधया पुरंधिं जार ससतीमिव
 प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु
 तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते
 अजनयो मरुतो वक्षणाभ्यो दिव वक्षणाभ्यः ॥४॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि
 त्वां त्सारी दसमानो भगमीट्टे तक्ववीये
 त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि
 उतो विहुत्मतीनां विशां ववर्जुषीणाम्
 विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥

ऋग्वेद: सूक्तं .१३५

स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते
 तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे
 प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥१॥
तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति
 तवायं भाग आयुषु सोमो देवेषु हूयते
 वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥२॥
नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये
 तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा
 अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥३॥
वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये
 पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम्
 वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥४॥
वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं वाजिनम्
 तेषां पिबतमस्मयू नो गन्तमिहोत्या
 इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥५॥
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत
 एते वामभ्यसृक्षत तिरः पवित्रमाशवः
 युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥६॥
अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम्
 वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥७॥
अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः
 साकं गावः सुवते पच्यते यवो ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥८॥
इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः
 धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः
 सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥९॥

ऋग्वेद: सूक्तं .१३६

प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम्
 ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता
 अथैनोः क्षत्रं कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥१॥
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः
 द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य
 अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥२॥
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे
 ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती
 मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥३॥
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः
 तं देवासो जुषेरत विश्वे अद्य सजोषसः
 तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥४॥
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः
 तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम्
 उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥५॥
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे
 इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम्
 ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥६॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः
 अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं ॥७॥

ऋग्वेद: सूक्तं .१३७

सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे
  राजाना दिविस्पृशास्मत्रा गन्तमुप नः
 इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥१॥
इम यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः
 उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः
 सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥२॥
तां वां धेनुं वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः
 अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये
 अयं वां मित्रावरुणा नृभिः सुतः सोम पीतये सुतः ॥३॥

ऋग्वेद: सूक्तं .१३८

प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो तन्दते स्तोत्रमस्य तन्दते
 अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम्
 विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥१॥
प्र हि त्वा पूषन्नजिरं यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो पीपरो मृधः
 हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः
 अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥२॥
यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे
 तामनु त्वा नवीयसीं नियुतं राय ईमहे
 अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥३॥
अस्या षु उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व
  षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः
 नहि त्वा पूषन्नतिमन्य आघृणे ते सख्यमपह्नुवे ॥४॥

ऋग्वेद: सूक्तं .१३९

अस्तु श्रौषट् पुरो अग्निं धिया दध नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे
 यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी
 अध प्र सू उप यन्तु धीतयो देवाँ अच्छा धीतयः ॥१॥
यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना
 युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम्
 धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥२॥
युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः
 युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा
 प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥३॥
अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु
 अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये
 पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥४॥
शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम्
 मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥५॥
वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः
 ते त्वा मन्दन्तु दावने महे चित्राय राधसे
 गीर्भिर्गिर्वाह स्तवमान गहि सुमृळीको गहि ॥६॥
षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः
 यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन
 वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा ॥७॥
मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः
 यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्
 अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥८॥
दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः
 तेषां देवेष्वायतिरस्माकं तेषु नाभयः
 तेषां पदेन मह्या नमे गिरेन्द्राग्नी नमे गिरा ॥९॥
होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः
 जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना
 अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥१०॥
ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ
 अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥११॥

ऋग्वेद: सूक्तं .१४०

वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये
 वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥१॥
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः
 अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥२॥
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम्
 प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥३॥
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास जुवः
 असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥४॥
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः
 यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥५॥
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत्
 ओजायमानस्तन्वश्च शुम्भते भीमो शृङ्गा दविधाव दुर्गृभिः ॥६॥
संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य शये
 पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥७॥
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः
 तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥८॥
अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः
 वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥९॥
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः
 अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥१०॥
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते
 यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥११॥
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने
 अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या ॥१२॥
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः

 गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥१३॥

No comments:

Post a Comment