Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२७

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
 सम्राजन्तमध्वराणाम् ॥१॥
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
 मीढ्वाँ अस्माकं बभूयात् ॥२॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
 पाहि सदमिद्विश्वायुः ॥३॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
 अग्ने देवेषु प्र वोचः ॥४॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
 शिक्षा वस्वो अन्तमस्य ॥५॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
 सद्यो दाशुषे क्षरसि ॥६॥
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
 स यन्ता शश्वतीरिषः ॥७॥
नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
 वाजो अस्ति श्रवाय्यः ॥८॥
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
 विप्रेभिरस्तु सनिता ॥९॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
 स्तोमं रुद्राय दृशीकम् ॥१०॥
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
 धिये वाजाय हिन्वतु ॥११॥
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
 उक्थैरग्निर्बृहद्भानुः ॥१२॥
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।

 यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥१३॥

No comments:

Post a Comment