Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२६

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
 सेमं नो अध्वरं यज ॥१॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
 अग्ने दिवित्मता वचः ॥२॥
आ हि ष्मा सूनवे पितापिर्यजत्यापये ।
 सखा सख्ये वरेण्यः ॥३॥
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
 सीदन्तु मनुषो यथा ॥४॥
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
 इमा उ षु श्रुधी गिरः ॥५॥
यच्चिद्धि शश्वता तना देवंदेवं यजामहे ।
 त्वे इद्धूयते हविः ॥६॥
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
 प्रियाः स्वग्नयो वयम् ॥७॥
स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
 स्वग्नयो मनामहे ॥८॥
अथा न उभयेषाममृत मर्त्यानाम् ।
 मिथः सन्तु प्रशस्तयः ॥९॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।

 चनो धाः सहसो यहो ॥१०॥

No comments:

Post a Comment