Friday, December 26, 2014

ऋग्वेद: सूक्तं १.१४१-१५०

ऋग्वेद: सूक्तं .१४१

बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि
 यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥१॥
पृक्षो वपुः पितुमान्नित्य शये द्वितीयमा सप्तशिवासु मातृषु
 तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥२॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः
 यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥३॥
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति
 उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥४॥
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे
 अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥५॥
आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते
 देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥६॥
वि यदस्थाद्यजतो वातचोदितो ह्वारो वक्वा जरणा अनाकृतः
 तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज व्यध्वनः ॥७॥
रथो यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते
 आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥८॥
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः
 यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥९॥
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि
 तं त्वा नु नव्यं सहसो युवन्वयं भगं कारे महिरत्न धीमहि ॥१०॥
अस्मे रयिं स्वर्थं दमूनसं भगं दक्षं पपृचासि धर्णसिम्
 रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत सुक्रतुः ॥११॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः
  नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥१२॥
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः
 अमी ये मघवानो वयं मिहं सूरो अति निष्टतन्युः ॥१३॥

ऋग्वेद: सूक्तं .१४२

समिद्धो अग्न वह देवाँ अद्य यतस्रुचे
 तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
घृतवन्तमुप मासि मधुमन्तं तनूनपात्
 यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति
 नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
ईळितो अग्न वहेन्द्रं चित्रमिह प्रियम्
 इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे
 वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः
 पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥६॥
भन्दमाने उपाके नक्तोषासा सुपेशसा
 यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥७॥
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी
 यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥८॥
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती
 इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना
 त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥१०॥
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते
 अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
पूषण्वते मरुत्वते विश्वदेवाय वायवे
 स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
स्वाहाकृतान्या गह्युप हव्यानि वीतये
 इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥१३॥

ऋग्वेद: सूक्तं .१४३

प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे
 अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥१॥
जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने
 अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥२॥
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः
 भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥३॥
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना
 अग्निं तं गीर्भिर्हिनुहि स्व दमे एको वस्वो वरुणो राजति ॥४॥
यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः
 अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो शत्रून्स वना न्यृञ्जते ॥५॥
कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत्
 चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥६॥
घृतप्रतीकं ऋतस्य धूर्षदमग्निं मित्रं समिधान ऋञ्जते
 इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥७॥
अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः
 अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥८॥

ऋग्वेद: सूक्तं .१४४

एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम्
 अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं निंसते ॥१॥
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः
 अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥२॥
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः
 आदीं भगो हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥३॥
यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा
 दिवा नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥४॥
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे
 धनोरधि प्रवत ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥५॥
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना
 एनी एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥६॥
अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो
 यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥७॥

ऋग्वेद: सूक्तं .१४५

तं पृच्छता जगामा वेद चिकित्वाँ ईयते सा न्वीयते
 तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत्
  मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे
 पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः
 अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि
 व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥

ऋग्वेद: सूक्तं .१४६

त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे
 निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः
 उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके
 अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥३॥
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम्
 सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥४॥
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे
 पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥

ऋग्वेद: सूक्तं .१४७

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः
 उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः
 पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्
 ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन
 मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन
 अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥

ऋग्वेद: सूक्तं .१४८

मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम्
 नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥१॥
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन्
 जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः
 प्र सू नयन्त गृभयन्त इष्टावश्वासो रथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन विभावा
 आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥४॥
यं रिपवो रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति
 अन्धा अपश्या दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥५॥

ऋग्वेद: सूक्तं .१४९

महः राय एषते पतिर्दन्निन इनस्य वसुनः पद
 उप ध्रजन्तमद्रयो विधन्नित् ॥१॥
यो वृषा नरां रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः
 प्र यः सस्राणः शिश्रीत योनौ ॥२॥
यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा
 सूरो रुरुक्वाञ्छतात्मा ॥३॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात्
 होता यजिष्ठो अपां सधस्थे ॥४॥
अयं होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या
 मर्तो यो अस्मै सुतुको ददाश ॥५॥

ऋग्वेद: सूक्तं .१५०

पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा
 तोदस्येव शरण महस्य ॥१॥
व्यनिनस्य धनिनः प्रहोषे चिदररुषः
 कदा चन प्रजिगतो अदेवयोः ॥२॥
चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि

 प्रप्रेत्ते अग्ने वनुषः स्याम ॥३॥

No comments:

Post a Comment